वांछित मन्त्र चुनें

अव॒ यत्त्वं श॑तक्रत॒विन्द्र॒ विश्वा॑नि धूनु॒षे । र॒यिं न सु॑न्व॒ते सचा॑ सह॒स्रिणी॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

अंग्रेज़ी लिप्यंतरण

ava yat tvaṁ śatakratav indra viśvāni dhūnuṣe | rayiṁ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat ||

पद पाठ

अव॑ । यत् । त्वम् । श॒त॒ऽक्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । विश्वा॑नि । धू॒नु॒षे । र॒यिम् । न । सु॒न्व॒ते । सचा॑ । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥ १०.१३४.४

ऋग्वेद » मण्डल:10» सूक्त:134» मन्त्र:4 | अष्टक:8» अध्याय:7» वर्ग:22» मन्त्र:4 | मण्डल:10» अनुवाक:11» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शतक्रतो-इन्द्र) हे असंख्य कर्मवाले राजन् ! (त्वं यत्) तू जो (विश्वानि) सब धनों को (अव धूनुषे) स्वाधीन करता है, तो (सुन्वते रयिं न) राज्य शुल्क को देने के लिए (सहस्रिणीभिः-ऊतिभिः) असंख्य रक्षाओं से (सचा) भाग्यधन दे (देवी०) पूर्ववत् ॥४॥
भावार्थभाषाः - बहुत कर्मशक्तिवाला राजा समस्त धनों को अपने अधीन करे, राज्यशुल्क देनेवाले के लिए धन का भाग देवे ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शतक्रतो-इन्द्र) हे असङ्ख्य-कर्मवन् राजन् ! (त्वं यत्-विश्वानि-अव धूनुषे) त्वं यतः सर्वाणि धनानि स्वाधीनीकरोषि ततः (सुन्वते रयिं न) राज्यं शुल्कं सुन्वति-प्रयच्छति तस्मै सम्प्रति ‘नकारः-सम्प्रत्यर्थे’ (सहस्रिणीभिः-ऊतिभिः-सचा) बह्वीभी रक्षाभिः सह भाग्यधनं प्रयच्छसीति शेषः (देवी०) पूर्ववत् ॥४॥